Close Menu
Techs Slash

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    Ellen DeGeneres on Why Kindness Still Matters More Than Ever

    January 21, 2026

    Why Angled Cooker Hoods Offer Better Headroom and Performance

    January 16, 2026

    Dominocomp Services and Cloud Computing: What Makes Them Stand Out?

    January 16, 2026
    Facebook X (Twitter) Instagram
    Techs Slash
    • Home
    • News
      • Tech
      • Crypto News
      • Cryptocurrency
    • Entertainment
      • Actors
      • ANGEL NUMBER
      • Baby Names
      • Beauty
      • beauty-fashion
      • facebook Bio
      • Fitness
      • Dubai Tour
    • Business
      • Business Names
    • Review
      • Software
      • Smartphones & Apps
    • CONTRIBUTION
    Facebook X (Twitter) Instagram
    Techs Slash
    Home»imran»Shiv Mahimna Stotra Lyrics – श्री शिव महिम्न स्तोत्र लिरिक्स ( अनुराधा पौडवाल )
    imran

    Shiv Mahimna Stotra Lyrics – श्री शिव महिम्न स्तोत्र लिरिक्स ( अनुराधा पौडवाल )

    Ranveer KumarBy Ranveer KumarJuly 14, 2023No Comments11 Mins Read
    Facebook Twitter Pinterest LinkedIn Tumblr Email

    Warning: Trying to access array offset on value of type bool in /home/cadesimu/techsslash.com/wp-content/themes/smart-mag/partials/single/featured.php on line 78
    Share
    Facebook Twitter LinkedIn Pinterest Email

    Shiv Mahimna Stotra Lyrics in Hindi

    महिम्नः पारं ते परमविदुषो यद्यसदृशी
    स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: ।
    अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्
    ममाप्येष स्तोत्रे हर नुरपवाद: परिकर: । 1 ।

    अतीत: पन्थानं तव च महिमा वाड्मनसयो:
    अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
    स कस्य स्तोतव्य: कतिविधगुण: कस्य बिषय:
    पदे त्वर्वाचीने पतति न मन: कस्य न वच: । 2 ।

    मधुस्फीता वाच: परमममृतं निर्मितवत:
    तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
    मम त्वेतां वाणीं गुणकथनपुण्येन भवत:
    पुनामित्यार्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता । 3 ।

    तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
    त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।
    अभव्यानामस्मिन वरद रमणीयामरमणीं
    विहन्तुं व्याक्रोशीं विदधत इहैके जडधिय: । 4 ।

    किमिह: किंकाय: स खलु किमुपायस्त्रिभुवनं
    किमाधारो धाता सृजति किमुपादान इति च ।
    अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
    कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः । 5 ।

    अजन्मानो लोकाः किमवयववन्तोऽपि जगतां
    अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
    अनीशो वा कुर्याद् भुवनजनने कः परिकरो
    यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे । 6 ।

    त्रयी सांख्यं योग: पशुपतिमतं वैष्णवमिति
    प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च ।
    रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
    नृणामेको गम्यस्त्वमसि पयसामर्णव इव । 7 ।

    महोक्ष: खट्वांगं परशुरजिनं भस्म फणिन:
    कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
    सुरास्तां तामृधिं दधति च भवद्भ्रूप्रणिहितां
    न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति । 8 ।

    ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
    परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
    समस्ते प्येतस्मिन् पुरमथन तैर्विस्मित इव
    स्तुवंजिह्रेमि त्वां न खलु ननु धृष्टा मुखरता । 9 ।

    तवैश्चर्यं यत्नाद् यदुपरि विरिंचो हरिरध:
    परिच्छेत्तुं यातावनलमनलस्कन्धवपुष: ।
    ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
    स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति । 10 ।

    अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
    दशास्यो यद्बाहूनभृत रणकण्डू परवशान् ।
    शिरःपद्मश्रेणी रचितचरणाम्भोरुह बलेः
    स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् । 11 ।

    अमुष्य त्वत्सेवा समधिगतसारं भुजवनं
    बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
    अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसि
    प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः । 12 ।

    यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
    अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।
    न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
    न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः । 13 ।

    अकाण्ड ब्रह्माण्ड क्षयचकित देवासुरकृपा
    विधेयस्याऽसीद् यस्त्रिनयन विषं संहृतवतः ।
    स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
    विकारोऽपि श्लाघ्यो भुवन भय भङ्ग व्यसनिनः । 14 ।

    असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
    निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
    स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
    स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः । 15 ।

    मही पादाघाताद् व्रजति सहसा संशयपदं
    पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
    मुहुर्द्यौर्दौ:स्थ्यं यात्यनिभृतजटाताडिततटा
    जगद्रक्षायै त्वं नटसि ननु वामैव विभुता । 16 ।

    वियद्व्यापी तारागणगुणितफेनोद्ग्मरुचि:
    प्रवाहो वारां य: पृषतलघुदृष्ट: शिरसि ते ।
    जगद् द्वीपाकारं जलधिवलयं तेन कृतमिति
    अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपु: । 17 ।

    रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
    रथाङ्गे चन्द्रार्कौ रथ चरण पाणिः शर इति ।
    दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः
    विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः । 18 ।

    हरिस्ते सहस्रं कमल बलिमाधाय पदयोः
    यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
    गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
    त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् । 19 ।

    क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां
    क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
    अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवं
    श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः । 20 ।

    क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां
    ऋषीणामार्त्विज्यं शरणद सदस्याः सुर गणाः ।
    क्रतुभ्रंशस्त्वत्तः क्रतुफल विधान व्यसनिनः
    ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः । 21 ।

    प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
    गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा ।
    धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
    त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः । 22 ।

    स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
    पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
    यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्
    अवैति त्वामद्धा बत वरद मुग्धा युवतयः । 23 ।

    श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
    चिता भस्मालेपः स्रगपि नृकरोटी परिकरः ।
    अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
    तथापि स्मर्तॄणां वरद परमं मङ्गलमसि । 24 ।

    मनः प्रत्यक् चित्ते सविधमविधायात्त मरुतः
    प्रहृष्यद्रोमाणः प्रमद सलिलोत्सङ्गति दृशः ।
    यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
    दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् । 25 ।

    त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः
    त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
    परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
    न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि । 26 ।

    त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्
    अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
    तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
    समस्त व्यस्तं त्वां शरणद गृणात्योमिति पदम् । 27 ।

    भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
    तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
    अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
    प्रियायास्मैधाम्ने प्रणिहित नमस्योऽस्मि भवते । 28 ।

    नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः
    नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
    नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
    नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः । 29 ।

    बहुल रजसे विश्वोत्पत्तौ भवाय नमो नमः
    प्रबल तमसे तत् संहारे हराय नमो नमः ।
    जन सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
    प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः । 30 ।

    कृश परिणति चेतः क्लेशवश्यं क्व चेदं
    क्व च तव गुण सीमोल्लङ्घिनी शश्वदृद्धिः ।
    इति चकितममन्दीकृत्य मां भक्तिराधाद्
    वरद चरणयोस्ते वाक्य पुष्पोपहारम् । 31 ।

    असित गिरि समं स्यात् कज्जलं सिन्धु पात्रे
    सुर तरुवर शाखा लेखनी पत्रमुर्वी ।
    लिखति यदि गृहीत्वा शारदा सर्वकालं
    तदपि तव गुणानामीश पारं न याति । 32 ।

    असुर सुर मुनीन्द्रैरर्चितस्येन्दु मौलेः
    ग्रथित गुणमहिम्नो निर्गुणस्येश्वरस्य ।
    सकल गण वरिष्ठः पुष्पदन्ताभिधानः
    रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार । 33 ।

    अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
    पठति परमभक्त्या शुद्ध चित्तः पुमान् यः ।
    स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
    प्रचुरतर धनायुः पुत्रवान् कीर्तिमांश्च । 34 ।

    महेशान्नापरो देवो महिम्नो नापरा स्तुतिः
    अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् । 35 ।

    दीक्षा दानं तपस्तीर्थं ज्ञानं
    योगादिकाः क्रियाः
    महिम्नस्तव पाठस्य कलां
    नार्हन्ति षोडशीम् । 36 ।

    कुसुमदशननामा सर्वगन्धर्वराज:
    शिशुशशिधरमौलेर्देवदेवस्य दास: ।
    स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
    स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्न: । 37 ।

    सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
    पठति यदि मनुष्य: प्रांजलिर्नान्यचेता: ।
    व्रजति शिवसमीपं किन्नरै: स्तूयमान:
    स्तवनमिदममोघं पुष्पदन्तप्रणितम् । 38 ।

    आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व भाषितम्
    अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् । 39 ।

    इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर पादयोः
    अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः । 40 ।

    तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर,
    यादृशोऽसि महादेव तादृशाय नमो नम: । 41 ।

    एककालं द्विकालं वा त्रिकालं यः पठेन्नरः
    सर्वपाप विनिर्मुक्तः शिव लोके महीयते । 42 ।

    श्री पुष्पदन्त मुख पंकज निर्गतेन
    स्तोत्रेण किल्बिष हरेण हर प्रियेण ।
    कण्ठस्थितेन पठितेन समाहितेन
    सुप्रीणितो भवति भूतपतिर्महेशः । 43 ।

    ।। इति गन्ध्र्वराजपुष्पदन्तकृतं श्री शिव महिम्न स्तोत्र सम्पूर्णम् ।।

    Ram Katha Sab Vidhi Sukhdai Lyrics – राम कथा सब विधि सुखदाई ( रविन्द्र जैन )

    Shiv Mahimna Stotram Lyrics in English

    mahimnah param te parama vidusho yadyasadrishi
    stutir brahma dina mapitadava sannastvayi girah.
    atha vacyah sarvah svamati parina mavadhi grinan
    mamapyeshah stotre hara nirapavadah parikarah । 1 ।

    Atitah panthanam tava ca mahima vanmanasayor
    atad vyavrttya yam cakita mabhi dhatte shrutirapi.
    sa kasya stotavyah katividha gunah kasya vishayah
    pade tvarvacine patati na manah kasya na vacah । 2 ।

    Madhu sphita vacah paramam amritam nirmitavatas
    tava brahman kim vag api suraguror vismaya padam.
    mama tvetam vanim guna kathana punyena bhavatah
    punam ityarthesmin puramathana buddhir vyavasita । 3 ।

    Tavaisvaryam yat taj jagadudaya raksa pralayakrit
    trayivastu vyastam tisrishu gunabhinnasu tanushu.
    abhavyanam asmin varada ramaniyama ramanim
    vihantum vyakrosim vidadhata ihaike jadadhiyah । 4 ।

    Kimihah kimkayah sa khalu kimupaya stribhuvanam
    kimadharo dhata srijati kimupadana iti cha.
    atarkyaish varye tvay yanavasara duhstho hatadhiyah
    kutarkoyam kamshcin mukharayati mohaya jagatah । 5 ।

    Ajanmano lokah kimavayava vantopi jagatam
    adhisthataram kim bhavavidhiranadritya bhavati.
    anisho va kuryad bhuvana janane kah parikaro
    yato mandastvam pratyamaravara samsherata ime । 6 ।

    Trayi sankhyam yogah pasupati matam vaishnavamiti
    prabhinne prasthane paramidamadah pathyamiti cha.
    rucinam vaicitryad riju kutila nana pathajusham
    nrinameko gamyas tvamsasi payasa marnava iva । 7 ।

    Mahokshah khatvangam parashu rajinam bhasma haninah
    kapalam cetiyat tava varada tantro pakaranam.
    surastam tamriddhim dadhati tu bhavad bhru pranihitam
    na hi svatma ramam vishaya mriga trishna bhramayati । 8 ।

    Dhruvam kascit sarvam sakala mapara stva dhruva midam
    paro dhrau vyadhrauvye jagati gadati vyasta vishaye.
    samastepye tasmin puramathana tair vismita iva
    stuvan jihremi tvam na khalu nanu dhrishta mukharata । 9 ।

    Tavaisvaryam yatnad yadupari virincir hari radhah
    paricchettum yatav anala manala skandha vapushah.
    tato bhakti sraddha bhara guru grinad bhyam girisha yat
    svayam tasthe tabhyam tava kim anuvrittir na phalati । 10 ।

    Ayatnadapadya tribhuvanama vairavya tikaram
    dashasyo yadbahun abhrita ranakandu paravashan.
    sthirah padmasreni racita caranam bhoruhabaleh
    sthiraya stvad bhaktes tripurahara visphur jitamidam । 11 ।

    Amushya tvatseva samadhigata saram bhujavanam
    balat kailasepi tvadadhivasatau vikramayatah.
    alabhya patale pyalasa calitan gustha shirasi
    pratishtha tvayyasid dhruvamupacito muhyati khalah । 12 ।

    Yadriddhim sutramno varada paramoccairapi satim
    adhashcakre banah parijana vidheya tribhuvanah.
    na taccitram tasmin varivasitari tvac caranayor
    na kasya unnatyai bhavati srirasastvay yavanatih । 13 ।

    Akanda brahmanda kshaya cakita devasura kripa
    vidheya syasidyas trinayana visham samhrita vatah.
    sa kalmashah kanthe tava na kurute na shriya maho
    vikaropi shlaghyo bhuvana bhaya bhangavyasaninah । 14 ।

    Asiddhartha naiva kvacidapi sadeva suranare
    nivartante nityam jagati jayino yasya vishikhah.
    sa pashyannisa tvam itara surasadharana mabhut
    smarah smarta vyatma na hi vasishu pathyah paribhavah । 15 ।

    Mahi padaghatad vrajati sahasa samshaya padam
    padam visnor bhramyad bhujaparigha rugna graha ganam.
    muhur dyaur dausthyam yat yanibhrita jata taditatata
    jagad rakshayai tvam natasi nanu vamaiva vibhuta । 16 ।

    Viyad vyapi tara gana gunita phenod gama rucih
    pravaho varam yah prishata laghu dristah shirasi te.
    jagad dvipakaram jaladhivalayam tena kritami
    tyane naivon neyam dhrita mahima divyam tava vapuh । 17 ।

    Rathah kshoni yanta shata dhriti ragendro dhanuratho
    rathange candrarkau rathacarana panih shara iti.
    didhakshoste koyam tripura trina madambara vidhir
    vidheyaih kridantyo na khalu paratantrah prabhu dhiyah । 18 ।

    Hariste sahasram kamala balima dhaya padayor
    yadekone tasmin nija mudaharan netra kamalam.
    gato bhaktyu drekah parinatim asau cakra vapusha
    trayanam rakshayai tripura hara jagarti jagatam । 19 ।

    Kratau supte jagrat tvamasi phalayoge kratumatam
    kva karma pradhvastam phalati purusha radhana mrite.
    atas tvam sam preksya kratusu phala dana pratibhuvam
    shrutau shraddham baddhva dridha parikarah karmasu janah । 20 ।

    Kriyadakso dakshah kratupati radhisha stanubhritam
    rishinamartvijyam sharanada sadasyah suraganah.
    kratu bhramshas tvattah kratuphala vidhana vyasanino
    dhruvam kartuh sraddha vidhura mabhicaraya hi makhah । 21 ।

    Praja natham natha prasabha mabhikam svam duhitaram
    gatam rohid bhutam rira mayishumrishyasya vapusha.
    dhanus paner yatam divamapi sapatra kritamamum
    trasantam tedyapi tyajati na mriga vyadharabhasah । 22 ।

    Svalavanya shamsa dhrita dhanusha mahnnaya trinavat
    purah plustam drishtva pura mathana pushpa yudhamapi.
    yadi strainam devi yama nirata dehardha ghatana
    davaiti tvam addha bata varada mugdha yuvatayah । 23 ।

    Shmashanesva krida smarahara pishacah sahacarash
    cita bhasma lepah sragapi nrikaroti parikarah.
    amangalyamshilam tava bhavatu namaiva makhilam
    tathapi smartrinam varada paramam mangalamasi । 24 ।

    Manah pratyak citte savidha mavadhayatta marutah
    prahrishyadromanah pramada salilot sangitadrisah.
    yada lokyah ladam hrada iva nimajya mritamaye
    dadhat yantas tattvam kimapi yaminas tat kila bhavan । 25 ।

    Tvamarkastvam somas tvamasi pavanas tvam hutavahas
    tvamapastvam vyoma tvamu dharanir atma tvamiti cha.
    paricchinnam evam tvayi parinata bibhratu giram
    na vidmas tat tattvam vayamiha tu yat tvam na bhavasi । 26 ।

    Trayim tisro vrittis tribhuvana matho trinapi sura
    nakaradyair varnais tribhir abhi dadhat tirnavikriti.
    turiyam te dhama dhvanibhi rava rundhana manubhih
    samastam vyastam tvam sharanada grinat yomiti padam । 27 ।

    Bhavah sarvo rudrah pasupati rathograh sahamahan
    statha bhime shanav iti yadabhi dhana shtakam idam.
    amu shmin pratyekam pravicarati deva shrutirapi
    priyayasmai dhamne pravihita namasyosmi bhavate । 28 ।

    Namo nedisthaya priyadava davishthaya cha namo
    namah kshodisthaya smarahara mahishthaya cha namah.
    namo varshishthaya trinayana yavishthaya cha namo
    namah sarvasmai te tadida mitisarvaya cha namah । 29 ।

    Bahala rajase vishvot pattau bhavaya namo namah
    prabala tamase tat samhare haraya namo namah.
    jana sukhakrite sattvo driktau mridaya namo namah
    pramahasi pade nistraigunye shivaya namo namah । 30 ।

    Krisha parinati cetah klesha vashyam kva cedam
    kva ca tava gunasimol langhini shashva driddhih.
    iti cakita mamandi kritya mam bhakti radhad
    varada caranayo ste vakya pushpo paharam । 31 ।

    Asita giri samam syat kajjalam sindhu patre
    sura taruvara shakha lekhani patra murvi.
    likhati yadi grhitva sharada sarva kalam
    tadapi tava gunanam isha param na yati । 32 ।

    Asura sura munindrair arcita syendu mauler
    grathita guna mahimno nirguna syesvarasya.
    sakala gana varisthah pushpadanta bhidhano
    rucira malaghu vrittaih stotra metac cakara । 33 ।

    Ahara harana vadyam dhurjateh stotra metat
    pathati paramabhaktya shuddhacittah pumanyah.
    sa bhavati shivaloke rudra tulya stathatra
    pracuratara dhanayuh putravan kirtimanshca । 34 ।

    Maheshannaparo devo mahimno napara stutih
    aghorannaparo mantro nasti tattvam guroh param । 35 ।

    Diksha danam tapas tirtham jnanam
    yaga dikah kriyah
    mahimnah stava pathasya kallam
    narhanti shodashim । 36 ।

    Kusuma dashana nama sarva gandharva rajah
    shishu shashadhara mauler deva devasya dasah.
    sa khalu nija mahimno bhrashta evasya roshat
    stavanamidamakarsid divya divyam mahimnah । 37 ।

    Suravaramuni pujyam sarvagamokshaikahetum
    pathati yadi manushyah pranjalir nanyacetah.
    vrajati shiva samipam kinnaraih stuyamanah
    stavanamidamamogham puspadanta pranitam । 38 ।

    Asamapta midam stotram punyam gandharva bhashitam
    anaupamyam manohari shiva mishvara varnanam । 39 ।

    Ityesa vanmayi puja shrimac shankara padayoh
    arpita tena devesah priyatam me sadashivah । 40 ।

    Tava tattwamna janami kidrishosi maheshwara
    yadrashosi mahadeva tadrashaya namo namah । 41 ।

    Eka kalam dwikalam wa trikalam yah pathennarah
    sarva papa vinirmuktah shivaloke mahiyate । 42 ।

    Sri pushpadanta mukha pankaja nirgatena
    stotrena kilbisha harena hara priyena.
    kanthas thitena pathitena samahitena
    suprinito bhavati bhutapatir maheshah । 43 ।

    ।। iti gandvrajpushpdantkritam shri shiv mahimna stotra sampoornam ।।

    Ramayan Song Lyrics – मंगल भवन अमंगल हारी रामायण गीत ( Ravindra Jain )

    Anuradha Paudwal – श्री शिव महिम्न स्तोत्र

    Shiv Mahimna Stotra Lyrics Shiv Mahimna Stotra Lyrics in Hindi Shiv Mahimna Stotram Lyrics in English
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Email
    Ranveer Kumar

    Related Posts

    SEO vs. PPC: Which is Best for Your Orlando Business?

    June 10, 2025

    Enhancing Efficiency with the Memory Traceable Monitoring Thermometer

    January 21, 2025

    Dominate Asheville’s Market: A Quick Guide to Google Success

    January 21, 2025

    Comments are closed.

    Top Posts

    Top 10 Best Websites to Download Cracked Software for Free

    March 18, 2024

    Sapne Me Nahane Ka Matlab

    March 18, 2024

    Sapne Me Nagn Stri Dekhna

    March 18, 2024

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    ABOUT TECHSSLASH

    Welcome to Techsslash! We're dedicated to providing you with the best of technology, finance, gaming, entertainment, lifestyle, health, and fitness news, all delivered with dependability.

    Our passion for tech and daily news drives us to create a booming online website where you can stay informed and entertained.

    Enjoy our content as much as we enjoy offering it to you

    Most Popular

    Top 10 Best Websites to Download Cracked Software for Free

    March 18, 2024

    Sapne Me Nahane Ka Matlab

    March 18, 2024

    Sapne Me Nagn Stri Dekhna

    March 18, 2024
    CONTACT DETAILS

    Phone: +92-302-743-9438
    Email: contact@serpinsight.com

    Our Recommendation

    Here are some helpfull links for our user. hopefully you liked it.

    Techs Slash
    Facebook X (Twitter) Instagram Pinterest
    • Home
    • About us
    • contact us
    • Affiliate Disclosure
    • Privacy Policy
    • Disclaimer
    • Terms and Conditions
    • Write for us
    • Daman Game
    © 2026 Techsslash. All Rights Reserved

    Type above and press Enter to search. Press Esc to cancel.